|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.138. अध्यायः 138
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति आपदि शत्रुणापि संधिकरणविषये दृष्टान्ततया मार्जारमूषिकचरितकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-138-0x(5725)(70095)
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी॥ 12-138-1(70096)
तदिच्छामि परां बुद्धिं श्रोतुं ते भरतर्षभ।
यथा राजा न मुह्येत शत्रुभिः परिपीडितः॥ 12-138-2(70097)
------याज्ञं सर्वशास्त्रविशारदम्।
पृच्छ------- तन्मे व्याख्यातुमर्हसि॥ 12-138-3(70098)
शत्रुभिबहु------था मुच्येत पार्थिवः।
एतदिच्छाम्य------र्वमेव यथाविधि॥ 12-138-4(70099)
विषमस्थं हि राजा----त्रवः परिपन्थिनः।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः॥ 12-138-5(70100)
सर्वतः प्रार्थ्यमानेन दर्बलेन महाबलैः।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम्॥ 12-138-6(70101)
कथं मित्रमरिं चापि विन्देत भरतर्षभ।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे॥ 12-138-7(70102)
अजातलक्षणे राजन्नमित्रे मित्रतां गते।
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत्॥ 12-138-8(70103)
विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत्।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि॥ 12-138-9(70104)
एतद्धै सर्वकृत्यानां परं कृत्यं नराधिप।
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः॥ 12-138-10(70105)
ऋते पितामहाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात्।
तदन्वीक्ष्य महाभाग सर्वमेतद्ब्रवीहि मे॥ 12-138-11(70106)
भीष्म उवाच। 12-138-12x(5726)
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत॥ 12-138-12(70107)
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति।
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः॥ 12-138-13(70108)
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये॥ 12-138-14(70109)
संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः।
अमित्रैरपि संधेयं प्राणा रक्ष्या हि भारत॥ 12-138-15(70110)
यो ह्यमित्रैर्नरैर्नित्यं न संदध्यादपण्डितः।
न सोर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत॥ 12-138-16(70111)
यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम्॥ 12-138-17(70112)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च॥ 12-138-18(70113)
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत्।
लताजालपरिच्छन्नो नानाद्विजगणायुतः॥ 12-138-19(70114)
स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः।
अरण्यमभितो जातस्तरुर्व्यालमृगायुतः॥ 12-138-20(70115)
तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम्।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः॥ 12-138-21(70116)
शाखां तस्य समाश्रित्य वसति स्म सुखं तदा।
लोमशो नाम मार्जारः सर्वसत्वावसादकः॥ 12-138-22(70117)
तत्र त्वागत्य चण्डालो ह्यरण्यकृतकेतनः।
युयोज यन्त्रमुन्माथं नित्यमस्तंगते रवौ॥ 12-138-23(70118)
तत्र स्नायुमयान्पाशान्यथावत्संविधाय सः।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम्॥ 12-138-24(70119)
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः।
कदाचिदत्र मार्जारः संप्रवृत्तो व्यबध्यत॥ 12-138-25(70120)
तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः॥ 12-138-26(70121)
तेनानुचरता तस्मिन्वते विश्वस्तचारिणा।
भक्ष्यं मृगयमाणे नचिराद्दृष्टमामिषम्॥ 12-138-27(70122)
स तमुन्माथमारुह्य तदामिषमभक्षयत्।
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्॥ 12-138-28(70123)
आमिषे तु प्रसक्तः स कदाचितवलोकयन्।
अपश्यदपरं घोरमात्मनो रिपुमागतम्॥ 12-138-29(70124)
शरप्रसूनसंकाशं महीविवरशायिनम्।
सकुलं हरिकं नाम चपलं ताम्रलोचनम्॥ 12-138-30(70125)
तन मूषिकगन्धेन त्वरमाण उपागतम्।
सक्ष्यार्थं लेलिहन्वक्रं भूमावूर्ध्वमुखः स्थितः॥ 12-138-31(70126)
--ाखागतमरिं चान्यमपश्यत्कोटरालयम्।
सूलकं चन्द्रकं नाम वक्रतुण्डं दुरासदम्॥ 12-138-32(70127)
पतस्य विषयं तस्य नकुलोलूकयोस्तथा।
यथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम्॥ 12-138-33(70128)
पपद्यस्यां सुकष्टायां मरणे समुपस्थिते।
मन्ताद्भय उत्पन्ने कथं कार्यं मनीषिणा॥ 12-138-34(70129)
तथा सर्वतो रुद्धः सर्वत्र भयकर्शितः।
भवद्भयसंत्रस्तश्चक्रे च परमां मतिम्॥ 12-138-35(70130)
आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम्।
मन्तात्संशयः सोऽयं तस्मादापदुपस्थिता॥ 12-138-36(70131)
गतं हि सहसा भूमिं नकुलो मामवाप्नुयात्।
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात्॥ 12-138-37(70132)
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति।
रिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात्॥ 12-138-38(70133)
न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः।
निमज्जत्यापदं प्राप्य महतोऽर्थानवाप्य ह॥ 12-138-39(70134)
न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम्।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया॥ 12-138-40(70135)
जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः।
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै॥ 12-138-41(70136)
नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये॥ 12-138-42(70137)
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः।
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते॥ 12-138-43(70138)
कदाजिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह॥ 12-138-44(70139)
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः।
कार्य इत्याहुराचार्या विषमे जीवितार्थिना॥ 12-138-45(70140)
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः।
अमित्रे खलु मार्जारे जीवितं संप्रतिष्ठितम्॥ 12-138-46(70141)
ततोऽस्मै संप्रवक्ष्यामि हेतुमात्माभिरक्षणे।
अपीजानीमयं शत्रुः संगत्या पण्डितो भवेत्॥ 12-138-47(70142)
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम्॥ 12-138-48(70143)
ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत्॥ 12-138-49(70144)
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ॥ 12-138-50(70145)
न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरा।
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते॥ 12-138-51(70146)
अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे।
येन शक्यस्त्वया मोक्षः प्राप्नुं श्रेयस्तथा मया॥ 12-138-52(70147)
मयाऽप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणां हि नौ॥ 12-138-53(70148)
इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम्।
न धर्षयति मार्जार तेन ते स्वस्ति सांप्रतम्॥ 12-138-54(70149)
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे॥ 12-138-55(70150)
सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः।
साहाय्यकं करिष्यामि नास्ति ते प्राणतो भयम्॥ 12-138-56(70151)
न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि॥ 12-138-57(70152)
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः।
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं च ते॥ 12-138-58(70153)
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित्।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्रमानसौ॥ 12-138-59(70154)
तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ।
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः॥ 12-138-60(70155)
अर्थयुक्तिमिमां तत्र यथाभूतां निशामय।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम्॥ 12-138-61(70156)
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते॥ 12-138-62(70157)
ईदृशो नौ क्रियायोगो भविष्यति सुविस्तरः।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि॥ 12-138-63(70158)
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम्।
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत॥ 12-138-64(70159)
अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः।
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत्॥ 12-138-65(70160)
बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्तयन्।
स्वामवस्थां प्रतीक्ष्यैनं साम्नैव प्रत्यपूजयत्॥ 12-138-66(70161)
ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रबीत्॥ 12-138-67(70162)
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय॥ 12-138-68(70163)
अहं हि भृशमापन्नस्त्वमापन्नतरो मया।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च॥ 12-138-69(70164)
विधत्स्व प्राप्तकालं यत्कार्थं सिध्यतु चावयोः।
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम्॥ 12-138-70(70165)
न्यस्तमानोस्मि भक्तोस्मि शिष्यस्त्वद्धितकृत्तथा।
तथा निदेशवर्ती च भवन्तं शरणं गतः॥ 12-138-71(70166)
इत्येवमुक्तः पलितो मार्जारं वशमागतम्।
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित्॥ 12-138-72(70167)
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम॥ 12-138-73(70168)
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम्।
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे॥ 12-138-74(70169)
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्।
अहं छेत्स्यामि ते पाशान्सखे सत्येने ते शपे॥ 12-138-75(70170)
तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत्।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्॥ 12-138-76(70171)
तं संपूज्याथ पलितं मार्जारः सौहृदे स्थितम्।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च॥ 12-138-77(70172)
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा।
तव प्राज्ञप्रसादाद्धि प्रियं प्राप्स्यामि जीवितम्॥ 12-138-78(70173)
यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव।
तदाज्ञापस्य कर्तास्मि सिद्धिरेवास्तु नौ सखे॥ 12-138-79(70174)
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च॥ 12-138-80(70175)
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते।
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम्॥ 12-138-81(70176)
प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः॥ 12-138-82(70177)
भीष्म उवाच। 12-138-83x(5727)
एवमाश्वासितो बिद्वान्मार्जारेण स मूषिकः।
प्रविवेश सुविस्रब्धः सम्यगङ्गीचकार ह॥ 12-138-83(70178)
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा।
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत्॥ 12-138-84(70179)
निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम्।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम्॥ 12-138-85(70180)
तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ।
दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ॥ 12-138-86(70181)
बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ।
अशक्तौ तु नयात्तस्मात्संप्रधर्षयितुं बलात्॥ 12-138-87(70182)
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम्॥ 12-138-88(70183)
लीनः स तस्य गात्रेषु पलितो देशकालवित्।
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः॥ 12-138-89(70184)
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम्।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः॥ 12-138-90(70185)
तमत्वरन्तं पलितं पाशानां छेदने तदा।
संचोदयितुमारेभे मार्जारो मूषिकं ततः॥ 12-138-91(70186)
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः॥ 12-138-92(70187)
इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत्।
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः॥ 12-138-93(70188)
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः।
वयमेवात्र कालज्ञा न कालः परिहास्यते॥ 12-138-94(70189)
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते।
तदेव काल आरब्धं महतेऽर्थाय कल्पते॥ 12-138-95(70190)
अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत्।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे॥ 12-138-96(70191)
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम्।
ततश्छेत्स्यामि ते पाशान्प्राप्ते साधारणे भये॥ 12-138-97(70192)
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति॥ 12-138-98(70193)
तस्मिन्कालेऽपि च तता दिवाकीर्तिभयार्दितः।
मम न ग्रहणे शक्तः पलायनपरायणः॥' 12-138-99(70194)
ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात्।
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति॥ 12-138-100(70195)
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम्।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः॥ 12-138-101(70196)
अथात्मकृत्ये त्वरितः सम्यक्प्रार्थितमाचरन्।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणाम्॥ 12-138-102(70197)
नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः॥ 12-138-103(70198)
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया।
तथा हि त्वरमाणेन त्वया कार्यमिदं मम।
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत्॥ 12-138-104(70199)
अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम॥ 12-138-105(70200)
यदि किंचिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम्।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे॥ 12-138-106(70201)
तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः।
उवाचेदं वचः श्रेष्ठं मार्जारं मूषिकस्तदा॥ 12-138-107(70202)
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः॥ 12-138-108(70203)
यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम्।
आरक्षितं ततः कार्यं पाणिः सर्पमुखादिव॥ 12-138-109(70204)
कृत्वा बलवता संधिमात्मानं यो न रक्षति।
अपथ्यमिव तद्भुक्तं तस्यार्थाय कल्पते॥ 12-138-110(70205)
कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः।
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा॥ 12-138-111(70206)
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः।
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्॥ 12-138-112(70207)
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयार्दितः।
मम न ग्रहणे शक्तः पलायपरायणः॥ 12-138-113(70208)
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः।
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश॥ 12-138-114(70209)
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः।
क्षयं जगाम सा रात्रिर्लोमशं त्वागमद्भयम्॥ 12-138-115(70210)
ततः प्रभातसमये विकटः कृष्णपिङ्गलः।
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः॥ 12-138-116(70211)
शङ्कुकर्णो महावक्रः खनित्री घोरदर्शनः।
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत॥ 12-138-117(70212)
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः।
उवाच पलितं भीतः किमिदानीं करिष्यसि॥ 12-138-118(70213)
तथैव च सुसंत्रस्तौ तं दृष्ट्वा घोरसंकुलम्।
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः॥ 12-138-119(70214)
बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ।
अशक्तौ सुनयात्तस्मात्संप्रधर्षयितुं बलात्॥ 12-138-120(70215)
कार्यार्थे कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ।
उलूकनकुलौ तूर्णं जग्मतुः स्वंस्वमालयम्॥ 12-138-121(70216)
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः।
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम्॥ 12-138-122(70217)
स तस्मात्संभ्रमान्मुक्तो मुक्तो घोरेण सत्रुणा।
बिलं विवेश पलितः शाखां लेभे स लोमशः॥ 12-138-123(70218)
उन्माथमप्युपादाय चण्डालो वीक्ष्य सर्वशः।
विहताशः क्षणेनैव तस्माद्देशादपाक्रमत्।
जगाम स स्वभवनं चण्डालो भरतर्षभ॥ 12-138-124(70219)
ततस्तस्माद्भान्मुक्तो दुर्लभं प्राप्य जीवितम्।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत्॥ 12-138-125(70220)
अकृत्वा संविदं कांचित्सहसा त्वमपस्रुतः।
कृतज्ञः कृतकल्याणः कच्चिन्मां नाभिशङ्कसे॥ 12-138-126(70221)
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्।
मित्रोपभोगसमये किं हि मां नोपसर्पसि॥ 12-138-127(70222)
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति।
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः॥ 12-138-128(70223)
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानः सखे।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि॥ 12-138-129(70224)
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम्॥ 12-138-130(70225)
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्॥ 12-138-131(70226)
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव॥ 12-138-132(70227)
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम्।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे॥ 12-138-133(70228)
बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम्।
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे॥ 12-138-134(70229)
एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः।
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः॥ 12-138-135(70230)
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम्।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे॥ 12-138-136(70231)
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः।
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतैः॥ 12-138-137(70232)
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः॥ 12-138-138(70233)
येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशंगताः॥ 12-138-139(70234)
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा॥ 12-138-140(70235)
यो यस्मिञ्जीवति स्वार्थे पश्येत्पीडां न जीवति।
स तस्य मित्रं तावत्स्यःद्यावन्न स्याद्विपर्ययः॥ 12-138-141(70236)
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा॥ 12-138-142(70237)
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः॥ 12-138-143(70238)
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु।
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम्॥ 12-138-144(70239)
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति॥ 12-138-145(70240)
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा।
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः॥ 12-138-146(70241)
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम्।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्॥ 12-138-147(70242)
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्समन्तरम्।
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम्॥ 12-138-148(70243)
अस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः।
पूर्वं निविष्टमुन्माथं चपलन्वान्न बुद्धवान्॥ 12-138-149(70244)
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम्॥ 12-138-150(70245)
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति।
तन्मिथ्याकारणं सर्वं विस्तरेणापि मे शृणु॥ 12-138-151(70246)
कारणात्प्रियतामेति द्वेष्यो भवति कारणात्।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः॥ 12-138-152(70247)
सख्यं सोदर्ययोर्भ्रात्रोदर्पंत्योर्वा परस्परम्।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह॥ 12-138-153(70248)
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे।
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः॥ 12-138-154(70249)
प्रियो भवति दानेन प्रियवादेन चापरः।
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः॥ 12-138-155(70250)
उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरे।
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते॥ 12-138-156(70251)
किंनु तत्कारणं मन्ये येनाहं भवतः प्रियः।
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम्॥ 12-138-157(70252)
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते।
स्वार्धं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते।
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः॥ 12-138-158(70253)
न कालो हि समर्थस्य स्नेहहेतुरयं तव।
तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे॥ 12-138-159(70254)
अभ्राणामिव रुपाणि विकुर्वन्ति पदेपदे।
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत्।
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्॥ 12-138-160(70255)
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा।
सागता सह तेनैव कालयुक्तेन हेतुना॥ 12-138-161(70256)
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः।
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता॥ 12-138-162(70257)
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः।
प्राविशेयं कथं पाशं त्वत्कृते तद्ब्रवीहि मे॥ 12-138-163(70258)
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान्।
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः॥ 12-138-164(70259)
त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम्।
न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात्॥ 12-138-165(70260)
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली।
नावयोर्विद्यते संधिर्वियुक्ते विषमे बले॥ 12-138-166(70261)
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम्।
भक्ष्यं मृगयते नूनं सुखोपायमसंशयम्॥ 12-138-167(70262)
--र्थी ह्येव सुव्यक्तो विमुक्तः प्रसृतः क्षुधा।
शास्त्रजां मतिमास्थाय प्रातराशमिहेच्छसि॥ 12-138-168(70263)
जानामि क्षुधितं च त्वामाहारसमयश्च ते।
स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः॥ 12-138-169(70264)
किंचात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि।
शुश्रूषां यतसे कर्तुं सखे मम तत्क्षमम्॥ 12-138-170(70265)
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये।
कस्मात्ते मां न खादेयुः स्पृष्टवा प्रणयिनि त्वयि॥ 12-138-171(70266)
नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे।
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मरसे यदि॥ 12-138-172(70267)
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च।
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्॥ 12-138-173(70268)
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे।
[विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत्॥] 12-138-174(70269)
नाहं त्वया समेष्यामि निवृत्तो भव लोमश।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते॥ 12-138-175(70270)
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय।
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनः सदा॥ 12-138-176(70271)
यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते।
कामं सर्वं प्रदास्यामि न त्वात्मानं कथंचन॥ 12-138-177(70272)
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान्॥ 12-138-178(70273)
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम्।
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम्॥ 12-138-179(70274)
न त्वात्मनः संप्रदानं धनरत्नवदिष्यते।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि॥ 12-138-180(70275)
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम्।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः॥ 12-138-181(70276)
शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा।
`शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा॥ 12-138-182(70277)
कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम्।'
न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतिश्चया॥ 12-138-183(70278)
इत्यभिव्यक्तमेवासौ पलितेनापहासितः।
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत्॥ 12-138-184(70279)
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः।
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः॥ 12-138-185(70280)
उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि॥ 12-138-186(70281)
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम्।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः॥ 12-138-187(70282)
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः।
त्वं मामेवंगते साधो न वाचयितुमर्हसि॥ 12-138-188(70283)
त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः।
धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु।
पतनं धर्मतत्त्वज्ञ न मे शङ्कितुमर्हसि॥ 12-138-189(70284)
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः।
मनसा भावगम्भीरं मार्जारमिदमब्रवीत्॥ 12-138-190(70285)
साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे।
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया॥ 12-138-191(70286)
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे।
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते॥ 12-138-192(70287)
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा।
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत्॥ 12-138-193(70288)
न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत्।
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत्॥ 12-138-194(70289)
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः।
द्रव्याणि संततिश्चैव सर्वं भवति जीवताम्॥ 12-138-195(70290)
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः।
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः॥ 12-138-196(70291)
वध्यन्ते न ह्यविश्वस्ताः शत्रुर्भिर्दुर्बला अपि।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः॥ 12-138-197(70292)
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा।
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात्॥ 12-138-198(70293)
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः।
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः॥ 12-138-199(70294)
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः।
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह॥ 12-138-200(70295)
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः।
एकेन बहवोऽमित्राः पलितेनाभिसंधिताः॥ 12-138-201(70296)
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः।
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्॥ 12-138-202(70297)
इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः।
विस्तरेण महाराज संक्षेपमपि मे शृणु॥ 12-138-203(70298)
अन्योन्यं कृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम्।
अन्योन्यमभिसंधातुं संबभूव तयोर्मतिः॥ 12-138-204(70299)
तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात्।
अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः॥ 12-138-205(70300)
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत्।
न ह्यप्रमत्तश्चलति चलितोऽवा न नश्यति॥ 12-138-206(70301)
काले हि रिपुणा संधिः काले मित्रेण विग्रहः।
कार्य इत्येव तत्वज्ञाः प्राहुर्नित्यं नराधिप॥ 12-138-207(70302)
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च।
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत्॥ 12-138-208(70303)
भीतवत्संहितः कार्यः प्रतिसंधिस्तथैव च।
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा॥ 12-138-209(70304)
न भयं जायते राजन्भीतस्यानागते भये।
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम्॥ 12-138-210(70305)
न भीरुरिति चात्यन्तं मन्त्रो देयः कथंचन।
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनाम्॥ 12-138-211(70306)
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्।
कार्याणां गुरुतां ज्ञात्वा नादृतं किंचिदाचरेत्॥ 12-138-212(70307)
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर।
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर॥ 12-138-213(70308)
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा।
संधिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि॥ 12-138-214(70309)
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा।
समागतश्चरेद्बुद्ध्या कृतार्थो न च विश्वसेत्॥ 12-138-215(70310)
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते।
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः॥ 12-138-216(70311)
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव।
ब्राह्मणाद्धि परं श्रेयो दिवि चेह च भारत॥ 12-138-217(70312)
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो।
पूजिताः शुभकर्तारः पूजयैनाञ्जाधिप॥ 12-138-218(70313)
राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे।
कुलस्य संततिं चैव यथान्यायं यथाक्रमम्॥ 12-138-219(70314)
श्रुतं च ते भारत संधिविग्रहं
विभावितं बुद्धिविशेषकारितम्।
तथा त्ववेक्ष्य क्षितिपेन सर्वदा
निषेवितव्यं नृप शत्रुमण्डलम्॥ ॥ 12-138-220(70315)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः॥ 138॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-138-5 उद्धर्तुमुन्मूलयितुम्॥ 12-138-6 सर्वतः सर्वदिक्स्थैः प्रार्थ्यमानेन प्रसितुमिति शेषः॥ 12-138-9 प्राकृतकृत्रिममित्रयोर्मध्ये केन सन्धिः कर्तव्यः केन वा वैरम्॥ 12-138-18 व्यवस्य निश्चित्य अत्र पूर्वश्लोकोक्तेऽर्थे॥ 12-138-20 वैराज्यमभिते जात इति ट. ड. थ. द. पाठः॥ 12-138-23 उन्माथं कूटयन्त्रं पशुमृगपक्षिबन्धनम्॥ 12-138-26 पलितो मूषिकः॥ 12-138-28 तदामिषं तस्य उन्माथे धृतमामिषम्। सपत्नस्य सपत्नं बद्धं अनादृत्य॥ 12-138-30 शरस्तृणविशेष स्तत्प्रसूनं पुष्पम्॥ 12-138-51 यदि मां न जिघांससि इति झ. द. पाठः॥ 12-138-105 स्मरन्कालं चिकीर्षसीति थ. द. पाठः॥ 12-138-160 पुनरद्यैव सौहृदमिति थ. द. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|